त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः—देवा मनुष्या असुराः; उषित्वा ब्रह्मचर्यं देवा ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दाम्यतेति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति ॥ १ ॥
अथ हैनं मनुष्या ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदेवाक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दत्तेति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति ॥ ३ ॥
अथ हैनमसुरा ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदेवाक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दयध्वमिति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति; तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर् द द द इति—दाम्यत दत्त दयध्वमिति; तदेतत्त्रयं शिक्शेत्—दमं दानं दयामिति ॥ ३ ॥
–The Bṛhadāraṇyaka Upaniṣad
Write a Reply or Comment
You should Sign In or Sign Up account to post comment.